|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.1. अध्यायः 001
Mahabharata - Shanti Parva - Chapter Topics
गङ्गातीरे बन्धूनां कृतोदकं युधिष्ठिरंप्रति व्यासनारदादिमहर्षीणां समागमनम्॥ 1॥ युधिष्ठिरेण तत्र नारदंप्रति कर्णवृत्तान्तकथनप्रार्थना॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
॥ श्रीवेदव्यासाय नमः।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥ 12-1-1(80862)
वैशम्पायन उवाच।
कृत्वोदकं ते सुहृदां सर्वेषां पाण्डुनन्दनाः।
विदुरो धृतराष्ट्रश्च सर्वाश्च भरतस्त्रियः॥ 12-1-1x(6703)
तत्र ते सुमहात्मानो न्यवसन्कुरुनन्दनाः।
शौचं निर्वर्तयिष्यन्तो मासच्चात्रं बहिः पुरात्॥ 12-1-2(80863)
कृतोदकं तु राजानं धर्मात्मानं युधिष्ठिरम्।
अभिजग्मुर्महात्मानः सिद्धा ब्रह्मर्षिसत्तमाः॥ 12-1-3(80864)
द्वैपायनो नारदश्च देवलश्च महानृषिः।
देवस्थानश्च कण्वश्च तेषां शिष्याश्च सत्तमाः॥ 12-1-4(80865)
अन्ये च वेदविद्वांसः कृतप्रज्ञा द्विजातयः।
गृहस्थाः स्नातकाः सन्तो ददृशुः कुरुसत्तमम्॥ 12-1-5(80866)
तेऽभिगम्य महात्मानं पूजिताश्च यथाविधि।
आसनेषु महार्हेषु विविशुः परमर्षयः॥ 12-1-6(80867)
प्रतिगृह्य ततः पूजां तत्कालसदृशीं तदा।
पर्युपांसन्यथान्यायं परिवार्य युधिष्ठिरम्॥ 12-1-7(80868)
पुण्ये भागीरथीतीरे शोकव्याकुलचेतसम्।
आश्वासयन्तो राजेन्द्रं विप्राः शतसहस्रशः॥ 12-1-8(80869)
नारदस्त्वव्रवीत्काले धर्मपुत्रं युधिष्ठिरम्।
संभाष्य मुनिभिः सार्धं कृष्णद्वैपायनादिभिः॥ 12-1-9(80870)
नारद उवाच। 12-1-10x(6704)
पार्थस्य बाहुवीर्येण प्रसादान्माधवस्य च।
जिता सेयं मही कृत्स्ना धर्मेण च युधिष्ठिर॥ 12-1-10(80871)
दिष्ट्या मुक्ताः स्थ संग्रामादस्माल्लोकभयंकरात्।
क्षत्रधर्मरतश्चासि कच्चिन्मोदसि पाण्डव॥ 12-1-11(80872)
कच्चिच्च निहतामित्रः प्रीणासि सुहृदो नृप।
कच्चिच्छ्रियमिमां प्राप्य न त्वां शोकः प्रबाधते॥ 12-1-12(80873)
युधिष्ठिर उवाच। 12-1-13x(6705)
विजितेयं मही कृत्स्ना कृष्णबाहुबलाश्रयात्।
ब्राह्मणानां प्रसादेन भीमार्जुनबलेन च॥ 12-1-13(80874)
इदं तु मे महद्दुःखं वर्तते हृदि नित्यदा।
कृत्वा ज्ञातिक्षयमिमं महान्तं घोरदर्शनम्॥ 12-1-14(80875)
सौभद्रं द्रौपदेयांश्च घातयित्वा सुतान्प्रियान्।
जयोऽयमजयाकारो भगवन्प्रतिभाति मे॥ 12-1-15(80876)
किंनु वक्ष्यति वार्ष्णेयी वधूर्मे मधुसूदनम्।
द्वारकावासिनी कृष्णमितः प्रतिगतं हरिम्॥ 12-1-16(80877)
द्रौपदी हतपुत्रेयं कृपणा हतबान्धवा।
अस्मत्प्रियहिते युक्ता भूयः पीडयतीव माम्॥ 12-1-17(80878)
इदमन्यच्च भगवन्यत्त्वां वक्ष्यामि नारद।
मन्त्रसंवरणेनास्मि कुन्त्या दुःखेन योजितः॥ 12-1-18(80879)
यः स नागायुतप्राणो लोकेऽप्रतिरथो रणे।
सिंहविक्रान्तगामी च जितकाशी यतव्रतः॥ 12-1-19(80880)
आश्रयो धार्तराष्ट्राणां मानी तीक्ष्णपराक्रमः।
अमर्षी नित्यसंरम्भी क्षेप्ताऽस्माकं रणेरणे॥ 12-1-20(80881)
शीघ्रास्त्रश्चित्रयोधी च कृती चाद्भुतविक्रमः।
गूढोत्पन्नः सुतः कुन्त्या भ्राताऽस्माकमसौ किल 12-1-21(80882)
तोयकर्मणि तं कुन्ती कथयामास मे तदा।
पुत्रं सर्वगुणोयेतं कर्णं त्यक्तं जले पुरा॥ 12-1-22(80883)
मञ्जूषायां समाधाय गङ्गास्रोतस्यमज्जयत्।
यं सूतपुत्रं लोकोऽयं राधेयं चाभ्यमन्यत॥ 12-1-23(80884)
स सूर्यपुत्रः कुन्त्या यै भ्राताऽस्माकं च मातृतः।
अजानता मया सड्ख्ये राज्यलुब्धेन घातितः।
तन्मे दहति गात्राणि तूलराशिमिवानलः॥ 12-1-24(80885)
न हि तं वेद पार्थोऽपि भ्रातरं श्वेतवाहनः।
नाहं न भीमो न यमौ स त्वस्मान्वेद तत्वतः॥ 12-1-25(80886)
गता किल पृथा तस्य सकाशमिति नः श्चुतम्।
अस्माकं शमकामा वै त्वं च पुत्रो ममेत्यथ॥ 12-1-26(80887)
पृथाया न कृतः कामस्तेन चापि महात्मना।
अतीवानुचितं मातरवोच इति सोऽब्रवीत्॥ 12-1-27(80888)
न हि शक्ष्यामि संत्यक्तुमहं दुर्योधनं रणे।
अनार्यत्वं नृशंसत्वं कृतघ्नत्वं च मे भवेत्॥ 12-1-28(80889)
युधिष्ठिरेण सन्धिं हि यदि कुर्यां मते तव।
भीतो रणे श्वेतवाहादिति मां मंस्यते जनः॥ 12-1-29(80890)
सोऽहं निर्जित्य समरे विजयं सहकेशवम्।
संधास्ये धर्मपुत्रेण पश्चादिति च सोऽब्रवीत्॥ 12-1-30(80891)
तमवोचत्किल पृथा पुनः पृथुलवक्षसम्।
चतुर्णामभयं देहि कामं युध्यस्व फल्गुनम्॥ 12-1-31(80892)
सोऽब्रवीन्मातरं धीमान्वेपमानां कृताञ्जलिः।
प्राप्तान्विषह्यांश्चतुरो न हनिष्यामि ते सुतान्॥ 12-1-32(80893)
पञ्चैव हि सुता देवि भविष्यन्ति तव ध्रुवाः।
सार्जुना वा हते कर्णे सकर्णा वा हतेऽर्जुने॥ 12-1-33(80894)
तं पुत्रगृद्धिनी भूयो माता पुत्रमथाब्रवीत्।
भ्रातॄणां स्वस्ति कुर्वीथा येषां स्वस्ति चिकीर्षसि॥ 12-1-34(80895)
एवमुक्त्वा किल पृथा विसृज्योपययौ गृहान्।
सोऽर्जुनेन हतो वीरो भ्रात्रा भ्राता सहोदरः॥ 12-1-35(80896)
न चैव निःसृतो मन्त्रः पृथायास्तस्य वा मुने।
अथ शूरो महेष्वासः पार्थेनाजौ निपातितः॥ 12-1-36(80897)
अहं त्वज्ञासिषं पश्चात्स्वसोदर्यं द्विजोत्तम।
पूर्वजं भ्रातरं कर्णं पृथाया वचनात्प्रभो॥ 12-1-37(80898)
तेन मे दूयते तीव्रं हृदयं भ्रातृघातिनः।
कर्णार्जुनसहायोऽहं जयेयमपि वासवम्॥ 12-1-38(80899)
सभायां क्लिश्यमानस्य धार्तराष्ट्रैर्दुरात्मभिः।
सहसोत्पतितः क्रोधः कर्णं दृष्ट्वा प्रशाम्यति॥ 12-1-39(80900)
यदा ह्यस्य गिरो रूक्षाः श्रृणोमि कटुकोदयाः।
सभायां गदतो द्यूते दुर्योधनहितैषिणः॥ 12-1-40(80901)
तदा नश्यति मे रोषः पादौ तस्य निरीक्ष्य ह।
कुन्त्या हि सदृशौ पादौ कर्णस्येति मतिर्मम॥ 12-1-41(80902)
सादृश्यहेतुमन्विच्छन्पृथायास्तस्य चैव ह।
कारणं नाधिगच्छामि कथंचिदपि चिन्तयन्॥ 12-1-42(80903)
कथं नु तस्य संग्रामे पृथिवी चक्रमग्रसत्।
कथं नु शप्तो भ्राता मे तत्त्वं वक्तुमिहार्हसि॥ 12-1-43(80904)
श्रोतुमिच्छामि भगवंस्त्वत्तः सर्वं यथातथम्।
भवान्हि सर्वविद्विद्वाँल्लोके वेद कृताकृतम्॥ ॥ 12-1-44(80905)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि प्रथमोऽध्यायः॥ 1॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-1-1 कृतोदकास्ते इति झ. पाठः॥ 12-1-2 तत्र गङ्गातीरे॥ 12-1-8 आश्वासयन्तः हेतौ शतृप्रत्ययः। आश्वासनार्थं पर्युपासन्नित्यर्थः॥ 12-1-16 वधूः कनिष्ठभ्रातृभार्यात्वात्स्नुषाभूता। वार्ष्णेयी सुभद्रा॥ 12-1-18 मन्त्रसंवरणेन गूढोत्पन्नस्यास्मद्भातुः कर्णस्याप्रकाशेन॥ 12-1-20 अमर्षी परोत्कर्षासहिष्णुः। नित्यसंरम्भी सदा क्रोधवान्॥ 12-1-24 मातृतः मातृसंबन्धेन॥ 12-1-26 पाण्डववत् त्वं च पुत्रो मभेत्यव्रवीदिति शेषः॥ 12-1-27 कामोऽभिलषितम्॥ 12-1-32 वध्यान्विषबह्यानिति थ. पाठःo। विषह्यान्वशगान्॥ 12-1-35 विसृज्य कर्णमिति शेषः॥ 12-1-43 चक्रं रथचक्रम्॥ 12-1-44 कृतं कार्यम्। अकृतं कारणम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|